॥संकटाष्टकस्तोत्रम्‌॥

WD

ध्यानम्‌
ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां
सद्यः संकटतारिणीं गुणमयीमारक्तवर्णां शुभाम्‌।
अक्ष-स्रग्‌-जलपूर्णकुम्भ-कमलं शंखं गदा बिभ्रतीं
त्रैशूलं डमरुश्च खड्ग-विधृतां चक्राभयाढ्यां पराम्‌॥

नारद उवा
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक!
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः॥1॥
न तृप्तिमधिगच्छामि तव वागमृतेन च।
वदस्वैकं महाभाग संकटाख्यानमुत्तमम्‌॥2॥
इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः।
संकष्टनाशनं स्तोत्रं श्रृणु देवर्षिसत्तम॥3॥
द्वापरे तु पुरणवृत्ते भ्रष्टराज्यो युधिष्ठिरः।
भ्रातृभिः सहितो राज्य-निर्वेद परमंगतः॥4॥
तदानीं तु ततः काशीं पुरीं यातो महामुनिः
मार्कण्डेय इति ख्यातः सह-शिष्यैर्महायशाः॥5॥
तं दृष्ट्वा स समुत्थाय प्रणिपत्य सुपूजितः।
किमर्थं म्लानवदनमेतत्‌ त्वं मां निवेदय॥6॥

युधिष्ठिर उवा
संकष्टं मे महत्प्राप्तमेतादृग्‌वदनं ततः।
एतन्निवारणोपायं किंचिद् ब्रूहि मुने मम॥7॥

मार्कण्डेय उवा
आनन्दकानने देवी संकटानाम विश्रुता।
वीरेश्वरोत्तरे भागे पूर्व चन्द्रेश्वरस्य च॥8॥
श्रृणु नामाऽष्टकं तस्याः सर्वसिद्धिकरं नृणाम्‌।
संकटा प्रथमं नाम द्वितीयं विजया तथा॥9॥
तृतीयं कामदा प्रोक्तं चतुर्थ दुःखहारिणी।
शर्वाणी पंचमं नाम षष्ठं कात्यायनी तथा॥10॥
सप्तमं भीमनयना सर्वरोगहराऽष्टमम्‌।
नामाऽष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः॥11॥
यः पठेत्‌ पाठयेद् वाऽपि नरो मुच्येत संकटात्‌।
इत्युक्त्वा तु द्विजश्रेष्ठमृषिर्वाराणसीं ययौ॥12॥
इति तस्य बचः श्रुत्वा नारदो हर्षनिर्भरः।
ततः सम्पूज्य तां देवीं वीरेश्वरसमन्विताम्‌॥13॥
भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम्‌।
मालाकमण्डलुयुतां पद्म-शंख-गदायुताम्‌॥14॥
त्रिशूलडमरूधरां खड्गचर्मविभूषिताम्‌।
वरदाभयहस्तां तां प्रणम्य विधिनन्दनः॥15॥
वरत्रयं गृहीत्वा तु ततो विष्णपुरं ययौ।
एतत्‌ स्तोत्रस्य पठनं पुत्र-पौत्र-विवर्धनम्‌॥16॥
संकष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम्‌।
गोपनीयं प्रयत्नेन महाबन्ध्याप्रसूतिकृत्‌॥17॥

॥ इति श्रीपद्मपुराण संकटाष्टकस्तोत्रं सम्पूर्णम्‌ ॥

वेबदुनिया पर पढ़ें