बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम्। स्वयं च त्व कर्णधारः प्रसीद मधुसूदन॥5॥ मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि। सन्ति विश्वेश विधयो हे विश्वेश्वर माधव॥6॥
न कर्मक्षेत्रमेवेद ब्रह्मलोकोऽयमीप्सितः। तथाऽपि न स्पृहा कामे त्वद्भक्तिव्यवधायके॥7॥ हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु। त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय॥8॥
इत्युक्त्वा जगतां धाता विरराम सनातनः। ध्यायं ध्यायं मत्पदाब्जं शश्वत् सस्मार मामिति॥9॥ ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्। स चैवाकर्मविषये न निमग्नो भवेद् ध्रुवम्॥10॥ मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम्। इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत्॥11॥